पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Goajaka  - Chandrabhaanu)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home page

Goajaka - Gopa  ( words like Gokarna, Gokula, Gotra, Godaavari, Gopa etc)

Gopa - Gomati ( Gopaala, Gopaalaka, Gopi, Gobhila, Gomati etc.)

Gomati - Govardhana ( Gomukha, Golaka, Goloka, Govardhana etc. )

Govardhana - Gau  ( Govinda, Gau/cow etc.)

Gau - Gautama (Gau / cow etc. )

Gautama - Gauri  ( Gautama, Gautami, Gauramukha, Gauri etc.)

Gauri - Grahana  (Granthi / knot, Graha/planet, Grahana / eclipse etc.)

Grahee - Ghantaanaada  (Graama / village / note, Graamani, Graaha / corcodile, Ghata / pitcher, Ghatotkacha, Ghantaa etc.)

Ghantaanaada - Ghorakhanaka  (Ghrita / butter, Ghritaachi etc. )

Ghosha - Chakra  (Ghosha / sound, Chakra / cycle etc. )

Chakra - Chanda ( Chakrapaani, Chakravaak, Chakravarti, Chakshu / eye, Chanda etc.)

Chanda - Chandikaa (Chanda / harsh, Chanda - Munda, Chandaala, Chandikaa etc.)

Chandikaa - Chaturdashi (Chandi / Chandee, Chatuh, Chaturdashi etc.)

Chaturdashi - Chandra ( Chaturvyuha, Chandana / sandal, Chandra / moon etc. )

Chandra - Chandrabhaanu ( Chandrakaanta, Chandragupta, Chandraprabha, Chandrabhaagaa etc. )

 

 

 

 

 

 

 

घृतपृष्ठ

लोके श्वेतकेशयुक्तस्य मनुष्यस्य संज्ञा पलितः अस्ति। किं पलितकेशस्य मनुष्यस्य कृष्णकेशरूपे  रूपान्तरणं संभवमस्ति, अयं ज्वलन्तप्रश्नः। वेदानुसारेण अग्निः जीर्णावस्थायां गच्छति, अनेन कारणेन पलितत्वं अस्ति। ऋग्वेदे १०.४.५ कथनमस्ति - कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः। अस्नातापो वृषभो न प्र वेति सचेतसो यं प्रणयन्त मर्ताः॥  वने तस्थौ पलितो धूमकेतुः – वने अग्निः पलितः धूमकेतुः ओषधिवनस्पतिषु तिष्ठति। तस्य नवीनीकरणस्य कः उपायः अस्ति। ऐतरेयब्राह्मणे   ३.४९ कृशः पलितः भरद्वाजः साकमश्वम्  साम्नः रूपेण अग्नेः आह्वानं करोति एवं असुराणां निष्कासनं करोति। अथर्ववेदे १२.३.१९ एवं १२.३.५३ कथनमस्ति - विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् । वर्षवृद्धमुप यच्छ शूर्पं तुषं पलावान् अप तद्विनक्तु ॥ वर्षं वनुष्वापि गच्छ देवांस्त्वचो धूमं पर्युत्पातयासि । विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ॥ अत्र कथनमस्ति यत् घृतपृष्ठस्य स्थितिं प्राप्त्यै अयं आवश्यकं अस्ति यत् यः शूर्पं अस्ति, तत् वर्षवृद्धं, संवत्सरवृद्धं भवेत्। तदा यः अवांछित मलमस्ति, तस्य निष्कासनं संभवं भविष्यति। ऋग्वेदे ७.२.४ कथनमस्ति - सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ। आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वम्॥ अर्थात् अग्नेः यः रूपं बर्हिरुपरि विराजति, तत् घृतपृष्ठः एवं पृषत् (चित्रितः) अस्ति। तस्य मार्जनस्य आवश्यकता भवति। तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम्॥ (१.१६४.०१)  अयं संकेतं करोति यत् यः घृतपृष्ठः अस्ति, सैव विशः उपरि नियन्त्रणं कर्तुं शक्यते। विशः नियन्त्रणं तदा भवति यदा विशः कामनापूर्ति भवति, विशः यस्य यस्य अन्नस्य कामनां करोति, तस्य पूर्तिः भवति। अन्यथा विशः पलायन्ते। भागवतपुराणादिषु ५.१.२५ घृतपृष्ठः प्रियव्रत एवं बर्हिष्मतेः दशपुत्राणां एकः अस्ति। तस्य आयतनं क्रौञ्चद्वीपः अस्ति, यस्य सः स्वसप्तपुत्रेषु विभाजनं करोति  (५.२०.२०)। तस्य पुत्राणां नामानि आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति घृतपृष्ठसुताः  सन्ति।

संदर्भाः

घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः।

आ देवान्सोमपीतये॥ १.०१४.०६

अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः।

तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम्॥ १.१६४.०१

विशां कविं विश्पतिं मानुषीणां शुचिं पावकं घृतपृष्ठमग्निम्।

नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि॥ ५.००४.०३

अग्निमीळेन्यं कविं घृतपृष्ठं सपर्यत।

वेतु मे शृणवद्धवम्॥ ५.०१४.०५

सं भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः।

तस्मा अमृध्रा उषसो व्युच्छान्य इन्द्राय सुनवामेत्याह॥ ५.०३७.०१

सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ।

आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वम्॥ ७.००२.०४

प्रास्मै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः।

घृतपृष्ठमीड्यमध्वरेष्वापो रेवतीः शृणुता हवं मे॥ १०.०३०.०८

यज्ञस्य केतुं प्रथमं पुरोहितं हविष्मन्त ईळते सप्त वाजिनम्।

शृण्वन्तमग्निं घृतपृष्ठमुक्षणं पृणन्तं देवं पृणते सुवीर्यम्॥ १०.१२२.०४

आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने

घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षतादिमम् शौअ २.१३.

विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम्

वर्षवृद्धमुप यच्छ शूर्पं तुषं पलावान् अप तद्विनक्तु १२.३.१९

वर्षं वनुष्वापि गच्छ देवांस्त्वचो धूमं पर्युत्पातयासि

विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् १२.३.५३

इरं मदन्तीर्घृतपृष्ठा उदाकुः सहस्रपोषं यजमाने न्यञ्चतीरिति समं प्राणैर्धारयमाणः स्फ्येनोपसंगृह्याविषिञ्चन्हरति आप.श्रौ.सू. १.१६.

घृतप्रतीको घृतपृष्ठो अग्निर्घृतैः समिद्धो घृतमस्यान्नम् घृतप्रुषस्त्वा सरितो वहन्ति घृतं पिबन्यजताद्देव देवान्  - आप.श्रौ.सू. १४.१७.१

ब्रह्माणमामन्त्रयते ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छ इति प्रणीताः प्रणयन् वाचं यच्छत्या हविष्कृतः प्रसूतो ब्रह्मणा समं प्राणैर्धारयमाणोऽविषिञ्चन् स्फ्येनोपसंगृह्य हरत्यनुपसंगृह्य वा को वः प्रणयति वः प्रणयतु अपो देवीः प्रणयामि यज्ञँ सँ सादयन्तु नः इरं मदन्तीर्घृतपृष्ठा उदाकुः सहस्रपोषं यजमाने न्यञ्चतीः इति मनसा मन्त्रं जपति भारद्वाजश्रौतसूत्रम् १.१८. 

अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा पालाशीं समिधमाज्येनाक्त्वा ऽभ्याधापयन्वाचयति आयुर्दा देव जरसं गृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।घृतं पिबन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमं स्वाहा इति बौ.गृ.सू. २.५.