पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Goajaka  - Chandrabhaanu)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home page

Goajaka - Gopa  ( words like Gokarna, Gokula, Gotra, Godaavari, Gopa etc)

Gopa - Gomati ( Gopaala, Gopaalaka, Gopi, Gobhila, Gomati etc.)

Gomati - Govardhana ( Gomukha, Golaka, Goloka, Govardhana etc. )

Govardhana - Gau  ( Govinda, Gau/cow etc.)

Gau - Gautama (Gau / cow etc. )

Gautama - Gauri  ( Gautama, Gautami, Gauramukha, Gauri etc.)

Gauri - Grahana  (Granthi / knot, Graha/planet, Grahana / eclipse etc.)

Grahee - Ghantaanaada  (Graama / village / note, Graamani, Graaha / corcodile, Ghata / pitcher, Ghatotkacha, Ghantaa etc.)

Ghantaanaada - Ghorakhanaka  (Ghrita / butter, Ghritaachi etc. )

Ghosha - Chakra  (Ghosha / sound, Chakra / cycle etc. )

Chakra - Chanda ( Chakrapaani, Chakravaak, Chakravarti, Chakshu / eye, Chanda etc.)

Chanda - Chandikaa (Chanda / harsh, Chanda - Munda, Chandaala, Chandikaa etc.)

Chandikaa - Chaturdashi (Chandi / Chandee, Chatuh, Chaturdashi etc.)

Chaturdashi - Chandra ( Chaturvyuha, Chandana / sandal, Chandra / moon etc. )

Chandra - Chandrabhaanu ( Chandrakaanta, Chandragupta, Chandraprabha, Chandrabhaagaa etc. )

 

 

 

 

 

 

 

ग्रह

१. अथ ग्रहान्गृह्णाति । माश , , ,

२. अष्टौ (प्राणः, जिह्वा, वाक्, चक्षुः श्रोत्रम्, मनः, हस्तौ, त्वक् ।) ग्रहाः । माश १४,,,

३. एष वै ग्रहः । य एष (सूर्यः) तपति येनेमाः सर्वाः प्रजा गृहीताः । माश , , ५,१

४. ग्रहान् वा अनु प्रजाः पशवः प्रजायन्ते । तैसं ,, १०,

 यानि पराचीनानि प्रयुज्यन्ते तान्य् अन्व् आरण्याः पशवो ऽरण्यम् अप यन्ति यानि पुनः प्रयुज्यन्ते तान्य् अन्व् ग्राम्याः पशवो ग्रामम् उपावयन्ति यो वै ग्रहाणां निदानं वेद निदानवान् भवति । तैसं ,, ११,

स्थालीभिर् अन्ये ग्रहा गृह्यन्ते वायव्यैर् अन्ये । एतद् वै ग्रहाणाम् मिथुनम् । तैसं ,, ११,

५. अग्मन्न् ऋतस्य योनिम् आ इति(साम ६५९)। ग्रहा ह वा ऋतस्य योनि: । जै ,१०४

६. तं ( यज्ञम् ) ग्रहेणानूद्द्रुत्यागृह्णात् तद् ग्रहस्य ग्रहत्वम् । काठ ९, १६ ।

७. तद्यदेनं पात्रैर्व्यगृह्णत तस्माद् ग्रहा नाम । माश ४, , , ५ ।

८. तं ( सोमम् ) अघ्नन् । तस्य यशो व्यगृह्णत । ते ग्रहा अभवन् । तद् ग्रहाणां ग्रहत्वम् । तै ,,,

९. तम् ( ध्रुवं ग्रहम् ) उत्तमं गृह्णाति । मै , ,

१०. तान् (अंशून्) परस्तात् पवित्रस्य व्यगृह्णात्। ते ग्रहा अभवन् । तद् ग्रहाणां ग्रहत्वम् । तै , , ,

११. ते देवा विजित्य । अग्नीषोमावन्वैच्छन् । तेऽग्निमन्वविन्दन्नृतुषूत्सन्नम् । तस्य विभक्तीभिस्तेजस्विनीस्तनूरवारुन्धत ते सोममन्वविन्दन् । तमघ्नन् । तस्य यथाभिज्ञायं तनूर्व्यगृह्णत । ते ग्रहा अभवन् । तद् ग्रहाणां ग्रहत्वम् । तै ,,,

१२. तावस्मात्सृष्टावपाक्रामताम् ।तौ ( दर्शपूर्णमासौ) ग्रहेणागृह्णात् (प्रजापतिः ) तद् ग्रहस्य ग्रहत्वम् । तै ,,,

१३. नवैते प्रातर्ग्रहा गृह्यन्त इमे वा एते गृह्यन्ते नव प्राणा आश्विनो दशमो ( ग्रहः ) गृह्यते व्यानो वा एष गृह्यते नाभिरेव दशमो ( ग्रहः = प्राणः ) गृह्यते । मै , ,

१४. नामैव ग्रहः । नाम्ना हीदं सर्वं गृहीतं किमु तद्यन्नाम ग्रहो बहूनां वै नामानि विद्माथ नस्तेन ते न गृहीता भवन्ति । अन्नमेव ग्रहः । अन्नेन हीदं सर्वं गृहीतं तस्माद्यावन्तो नोऽशनमश्नन्ति ते नः सर्वे गृहीता भवन्त्येषैव स्थितिः - माश , , ,

१५.  प्राणान् वा एतस्य शुग् ऋच्छति यस्यामयति प्राणा ग्रहाः प्राणान् एवास्य शुचो मुञ्चति ।  तैसं , , , ;

यदि ग्रह उपदस्येदाग्रायणाद्गृहीयाद् यद्याग्रायण उपदस्येद् गृहेभ्यो गृह्णीयात् पिता वा आग्रायणः पुत्रा ग्रहा  - काठ २७,

१६. प्राणा वा एत इतरे ग्रहा, आयुर्ध्रुवः (ग्रहः) । मै ४, , ६ ।

१७. प्राणा ( अङ्गानि माश ४,,,११] ) वै ग्रहाः । काठ ३०, ; क ४६, ५ माश ४, , , १३; ,,; ११ ॥

१८. तमध्वर्युर्ग्रहेण गृह्णाति यद् गृह्णाति तस्माद् ग्रहः । माश १०, , ,

१९. यद्वित्तं ( यज्ञम् ) ग्रहैर्व्यगृह्णत तद् ग्रहाणां ग्रहत्वम् । ऐ ,

२०. वागेव ग्रहः । वाचा हीद सर्वं गृहीतम् । माश ४, , ,२ ।

२१. देवा वै वायुमब्रुवँस्त्वया मुखेन वृत्रँ हनामेति सोऽब्रवीद्वार्यं वृणै मदग्रा एव ग्रहा गृह्यान्ता इति तस्माद्वाय्वग्रा ग्रहा गृह्यन्ते । काठ २७, , क ४२, ३ ।

२२. साम ( प्राणो वै (जै. ] ) ग्रहः । जै१, ३५३; माश ४, , , ७ ॥  

अन्नमेव ग्रहः। अन्नेन हीद सर्वं गृहीतम् – माश 4.6.5.4,

आत्मा वा आग्रयणो ग्रहः प्राणा इतरे। प्राणेभ्यो वा आत्मा संभवत्य् आत्मनो वा प्राणाः।- जै 1.353