पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Jalodbhava  to Tundikera)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home page

Jalodbhava - Jaatipushpa (Jahnu, Jagrata / awake, Jaajali, Jaataveda / fire, Jaati / cast etc.)

Jaatukarnya - Jaala  (Jaatukarnya, Jaanaki, Jaabaali, Jaambavati, Jaambavaan etc. )  

Jaala - Jeeva  (Jaala / net, Jaalandhara, Jaahnavi, Jihvaa / tongue, Jeemuuta, Jeeva etc.)

Jeeva - Jaimini ( Jeevana / life, Jrimbha, Jaigeeshavya, Jaimini etc.) 

Joshtri - Jyeshthaa (Jnaana / knowledge, Jyaamagha, Jyeshthaa etc. )  

Jyeshthaa - Jwalanaa  ( Jyeshthaa, Jyoti / light, Jyotisha / astrology, Jyotishmaan, Jyotsnaa, Jwara / fever etc. )

Jwalanaa - Dhaundhaa (Jwaala / fire, Tittibha, Damaru, Daakini, Dimbhaka, Dhundhi etc.)

Ta - Tatpurusha ( Taksha / carpenter, Takshaka, Takshashilaa, Tattva / fact / element etc. ) 

Tatpurusha - Tapa (Tatpurusha, Tanu / body, Tantra / system, Tanmaatraa, Tapa / penance etc. )

Tapa - Tamasaa (Tapa, Tapati, Tama / dark, Tamasaa etc.)

Tamaala - Taamasi (Tarpana / oblation, Tala / level, Taatakaa, Taapasa, Taamasa etc.)

Taamisra - Taaraka (Taamisra, Taamboola / betel, Taamra / copper, Taamraparni, Taamraa, Taaraka etc.)

Taaraka - Taala (Taaraa, Taarkshya, Taala etc.)

Taala - Tithi  (Taalaketu, Taalajangha, Titikshaa, Tithi / date etc. )

Tithi - Tilottamaa  (Tila / sesame, Tilaka, Tilottamaa etc.)

Tilottamaa - Tundikera (Tishya, Teertha / holy place, Tungabhadra etc.)

 

 

तार्क्ष्य

ऋग्वेदे १०.१७८ यः (त्यमू षु वाजिनमिति) तार्क्ष्यसूक्तमस्ति, तस्य ऋषिः अरिष्टनेमिः तार्क्ष्यः अर्थात् तृक्षस्य पुत्रः अरिष्टनेमिः अस्ति एवं देवता तार्क्ष्यः अस्ति। अरिष्टनेम्युपरि टिप्पणी पठनीया अस्ति। अस्य सूक्तोपरि निर्मितं साम तार्क्ष्यंसाम अस्ति।  वैदिकवाङ्मये तार्क्ष्यशब्दस्य विवेचनं संतोषप्रदं नास्ति। पुराणेषु कथनमस्ति (भागवतपुराणम् १२.११.४१ इत्यादि) यत् सहोमासे (मार्गशीर्षे) सूर्यरथोपरि तार्क्ष्यस्य स्थितिरस्ति, सहस्य (पौषे) अरिष्टनेमिनः। मार्गशीर्षमासः मृगशीर्षनक्षत्रस्य प्रतिनिधिः अस्ति। मृगः यज्ञः अस्ति, तस्य शीर्षस्य निर्माणम्। मार्गशीर्षतः अग्रिमः मासः पौषः अस्ति यः पुष्य नक्षत्रस्य प्रतिनिधिः अस्ति। पुष्यनक्षत्रस्य देवता पूषा, पोषकः अस्ति। सोमयागे मुख्यसुत्यादिवसतः प्राक् प्रवर्ग्य-उपसदसंज्ञकौ कृत्यौ भवतः। प्रवर्ग्यकृत्यस्य उद्देश्यः  यज्ञस्य उपशीर्षाणां निर्माणं अस्ति एवं उपसदकृत्यस्य उद्देश्यं निर्मितेभ्यः शीर्षेभ्यः प्रजायाः सम्यक् शासनमस्ति (प्रवर्ग्योपरि टिप्पण्यौ पठनीयौ प्रवर्ग्य१ , प्रवर्ग्य २) । एतेषां उपशीर्षाणां संख्या द्वादश अथवा चतुर्विंशः अस्ति। ब्रह्माण्डे चेतनायाः या ऊर्जा उच्छ्रिता अस्ति, प्रवृञ्जिता अस्ति, तस्याः संभरणं प्रवर्ग्यसंभरणं अस्ति। यादृशः शिरः अस्ति, तादृशैव प्रजायाः शासनं करिष्यति। तैत्तिरीयके आरण्यके ५.१२.१ कथनमस्ति कीदृश्यस्य शिरसा कस्याः प्रजायाः नियन्त्रणं भविष्यति। अनुमानमस्ति यत् एते शीर्षाः एव तार्क्ष्याः सन्ति। स्कन्दपुराणे १.२.१३.१६६ तार्क्ष्यः शिवस्य ओदनलिंगस्य आराधनां करोति। अयं अनुमानमस्ति यत् यः यज्ञस्य मुख्यः शीर्षः अस्ति, यः ब्रह्मौदनमस्ति, यः प्रेम्णः पराकाष्ठा अस्ति,  तार्क्ष्यस्य कामना तस्याः स्थित्याः प्रापणस्य अस्ति।

     व्यावहारिके स्तरे, यथा डा. फतहसिंहेन व्याख्यातमस्ति, ओदनस्य तात्पर्यं उदानप्राणस्य विकसनतः अस्ति। देहस्य अङ्गादंगात् रसस्य, वीर्यस्य गतिः ऊर्ध्वमुखी भवति एवं शीर्षस्य निर्माणं करोति। अयं शीर्षः अङ्गस्य रक्षकः, अरिष्टनेमिः भवति। अस्मिन् संदर्भे मार्कण्डेयपुराणे ३.१५ तार्क्ष्याः चत्वार्याणां पक्षिपुत्राणां जन्मकथा उल्लेखनीयमस्ति। विपुलस्वान् संज्ञकः एकः मुनिः अस्ति यस्य समक्षे इन्द्रः श्येनरूपेण आगत्य नरमांसभक्षणस्य कामनां करोति। मुनिः स्वपुत्राणां श्येनस्य भक्षः भवितुं आदेशति किन्तु ते तस्य आदेशस्य अवहेलनां कुर्वन्ति। तदा मुनिः तेभ्यः पक्षिभवनस्य शापं ददाति। तेषां चत्वार्याणां पुत्राणां जन्म तार्क्ष्याः पुत्राणां रूपेण भवति। देहाङ्गेभ्यः यः उदानप्राणस्य विकसनमस्ति, तत् नरमांसभक्षणसदृशमेवास्ति। यस्मादङ्गात् उदानस्य विकासः भवति, तस्य अङ्गस्य कामुकता अपि शुष्यति।