पुराण विषय अनुक्रमणिका PURAANIC SUBJECT INDEX (From Phalabhooti to Braahmi ) Radha Gupta, Suman Agarwal & Vipin Kumar
|
|
बाहु श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥१.१६३.१॥ उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत्सवितेव प्र बाहू । - १.१९०.३ स्तोतुर्दुरोणे सुभगस्य रेवत्सृप्रा करस्ना दधिषे वपूंषि ॥३.१८.५॥ कर्मकरणार्थं प्रसृतौ “करस्ना कर्मणां प्रस्नातारौ बाहू । करस्नौ बाहू कर्मणां प्रस्नातारौ ' ( निरु. ६. १७ ) इति यास्कः । प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत् ॥ऋ ४.५३.३॥ दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता । ५.४३.४ सं ते गावस्तम आ वर्तयन्ति ज्योतिर्यच्छन्ति सवितेव बाहू ॥७.७९.२॥ उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥८.६१.१८॥ उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥८.७७.११॥ बाहू यदग्ने अनुमर्मृजानो न्यङ्ङुत्तानामन्वेषि भूमिम् ॥१०.१४२.५॥ यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥१०.१६३.२॥ हस्तयोरूर्ध्वभागावंसावधोभागौ बाहू १. तस्माद् इदं शिरो न मेद्यतो ऽनुमेद्यति, न कृश्यतो ऽनुकृश्यति।….तस्माद् इमं बाहुं सं चाञ्चति प्र च सारयति।….तस्मादयं बाहुर्मेद्यतो ऽ नुमेद्यति, कृश्यतो ऽनुकृश्यति । जै २.४०७ । २. तस्मादु बाहुवीर्य्यो ( राजन्यः ) बाहुभ्याँ हि सृष्टः । तां ६, १, ८ । ३. पञ्चदशौ हि बाहू । माश ८, ४, ४, ६। ४. बाहुर्नक्षत्रँ रुद्रो देवता । मै २, १३, २० (तु. काठ ३९,१३)। ५. बाहू एवास्य सूक्तवाकश्च शंयोर्वाकश्च । माश ११, २, ६, ९। ६. बाहू राजन्यः कृतः । काठसंक १०१ : ४; तैआ ३, १२, ५। ७. अथ बाहू उद्गृह्णाति । हिरण्यरूपा उषसो विरोक उभाविन्द्रो उदिथः सूर्यश्च आरोहतं वरुण मित्र गर्तं ततश्चक्षाथामदितिं दितिं चेति बाहू वै मित्रावरुणौ पुरुषो गर्तस्तस्मादाहारोहतं वरुण मित्र गर्तमिति ततश्चक्षाथामदितिं दितिं चेति ततः पश्यतं स्वं चारणं चेत्येवैतदाह । माश ५, ४, १, १५। ८. वीर्यं वाऽ एतद्राजन्यस्य यद् बाहू ।……नेन्म इदं वीर्यं वीर्यमपां रसः सम्भृतो बाहू व्लिनादिति तस्मादेनमूर्ध्वबाहुमभिषिञ्चति - माश ५,४, १, १७ । ९. घृतं वै देवा वज्रं कृत्वा सोमं अघ्नन् , स्रुचौ बाहू, तस्मात् स्रुचौ सौमीमाहुतिं नाशाते । मै ३,८, २ (तु. क ३१, ७) । बाहू वै स्रुचौ बाहू एवास्मिन्नेतत्प्रतिदधाति - माश ७, ४, १, ३६ प्रादेशमात्रं हीदमभि वाग्वदत्यरत्निमात्री त्वेव भवति बाहुर्वा अरत्निर्बाहुनो वै वीर्यं क्रियते – माश ६.३.१.३३, प्रादेशमात्रो वै गर्भो विष्णुर्योनिरेषा गर्भसम्मितां तद्योनिं करोत्यरत्निमात्री तिरश्ची बाहुर्वा अरत्निर्बाहुनो वै वीर्यं क्रियते – माश ६.७.१.१४ अरत्निमात्री (अभ्रिः) भवति। बाहुर्वा अरत्निर्बाहुनो वै वीर्यं क्रियते – माश १४.१.२.[६] इन्द्रस्य त्वा बाहुभ्यामुद्यच्छे – तैसं १..१.२.२, मै १.१.२, ४.१.२, काठ १.२, क १.२ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददे , इन्द्रस्य बाहुरसि दक्षिणः सहस्रभृष्टिः शततेजा । मै १.१.१०, काठ १.९, क १.९, तै १.१.११.१, माश १.३.४.३। स (प्रजापतिः) बाहुभ्यामेवोरसः पञ्चदशं स्तोममसृजत त्रिष्टुभं छन्दो बृहत् सामेन्द्रं देवतां राजन्यं मनुष्यमश्वं पशुम् – जै १.६८ अथ यत्पञ्चदशान्याज्यानि भवन्ति, पञ्चदशो माध्यंदिनः (पवमानः) बाहुभ्यामेव तेन पाप्मानमपघ्नते – जै २.१३५ बाहू वै पञ्चदश स्तोमानाम् – जै २.१३५ बाहुवोर्बलम् (अस्तु) – तैसं ५.५.९.२ शिरो वै यज्ञस्यातिथ्यम् । बाहू यज्ञस्य प्रायणीयोदयनीयौ – माश ३.२.३.२० बाहु-बलिन्- तस्माद्राजा बाहुबली भावुकः । माश १३, २, २, ५ । |