पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Paksha to Pitara  )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE

Paksha - Panchami  ( words like Paksha / side, Pakshee / Pakshi / bird, Panchachuudaa, Panchajana, Panchanada, Panchamee / Panchami / 5th day etc. )

Panchamudraa - Patanga ( Pancharaatra, Panchashikha, Panchaagni, Panchaala, Patanga etc. )

Patanjali - Pada ( Patanjali, Pataakaa / flag, Pati / husband, Pativrataa / chaste woman, Patnee / Patni / wife, Patnivrataa / chaste man, Patra / leaf, Pada / level etc.)

Padma - Padmabhuu (  Padma / lotus, Padmanaabha etc.)

Padmamaalini - Pannaga ( Padmaraaga, Padmaa, Padmaavati, Padminee / Padmini, Panasa etc. )

Pannama - Parashunaabha  ( Pampaa, Payah / juice, Para, Paramaartha, Parameshthi, Parashu etc. )

Parashuraama - Paraashara( Parashuraama, Paraa / higher, Paraavasu, Paraashara etc)

Parikampa - Parnaashaa  ( Parigha, Parimala, Parivaha, Pareekshita / Parikshita, Parjanya, Parna / leaf, Parnaashaa etc.)

Parnini - Pallava (  Parva / junctions, Parvata / mountain, Palaasha etc.)

Palli - Pashchima (Pavana / air, Pavamaana, Pavitra / pious, Pashu / animal, Pashupati, Pashupaala etc.)

Pahlava - Paatha (Pahlava, Paaka, Paakashaasana, Paakhanda, Paanchajanya, Paanchaala, Paatala, Paataliputra, Paatha etc.)

Paani - Paatra  (Paani / hand, Paanini, Paandava, Paandu, Pandura, Paandya, Paataala, Paataalaketu, Paatra / vessel etc. )

Paada - Paapa (Paada / foot / step, Paadukaa / sandals, Paapa / sin etc. )

 Paayasa - Paarvati ( Paara, Paarada / mercury, Paaramitaa, Paaraavata, Paarijaata, Paariyaatra, Paarvati / Parvati etc.)

Paarshva - Paasha (  Paarshnigraha, Paalaka, Paavaka / fire, Paasha / trap etc.)

Paashupata - Pichindila ( Paashupata, Paashaana / stone, Pinga, Pingala, Pingalaa, Pingaaksha etc.)

Pichu - Pitara ( Pinda, Pindaaraka, Pitara / manes etc. )

 

 

पतङ्गः

हठयोगग्रन्थेषु कथनमस्ति यत् देहे यः प्राणस्य अन्तर्गमनं-बहिर्गमनं अस्ति, तेनानुसारेणेव देहे जीवस्य गतिः भवति। अयं श्रेयस्करः अस्ति यदि प्राणस्य अन्तर्बहिर्गतिः न भवेत्। तदा जीवः स्थिरः भवति। स्कन्दपुराणे १.१.७.४९ कथा अस्ति यत्र पतङ्गी स्वपक्षाभ्यां शिवमन्दिरस्य मार्जनं करोति। तेन पुण्येन सा जन्मान्तरे राजकन्या भवति। संभावना अस्ति यत् पतङ्याः पक्षौ प्राणापानस्य व्यापारमेवास्ति। पक्षिषु ये पक्षाः सन्ति, मनुष्ये बाहवः सन्ति। भागवतपुराणे ५.२.१४ कथनमस्ति - करसरोजहतः पतङ्गो

     वैदिक-पौराणिक वाङ्मये सार्त्रत्रिकरूपेण दिवि गतिशीलस्य सूर्यस्य संज्ञा पतङ्गः अस्ति। जैमिनीय उपनिषद ब्राह्मणः ३.६.२ पतङ्गस्य विषये नवीना व्याख्या प्रस्तूयते। यदा कस्यापि प्रियसंगीतस्य ध्वनिः श्रूयते, तदा प्राणानां उत्थापनं भवति। यदा कोपि महापुरुषः आगच्छति, तदा सर्वे प्राणाः उत्थिताः भवन्ति। प्रतीकरूपेण वयं पूजनीयस्य पुरुषस्य आगमने उत्थिताः भवन्ति। उत्थानस्यानन्तरं तेषां प्राणानां पुनः अवगमनं भवति। किं अयं संभवमस्ति, किं कोपि संगीतः अस्ति येन प्राणानां उत्थापनान्तरं अवगमनं न भवेत्। ओंकारः एषः साम अस्ति। अपि च, कथनं अस्ति (जैउब्रा. ३.६.५)-- स यो वायुः प्राण एव सः योऽग्निर्वागेव सा यश्चन्द्रमा मन एव तद् य आदित्यस्स्वर एव सः । दिवि यः आदित्यः पतंगरूपेण गतिशीलः अस्ति, यः भूम्यां न पतति, तत् स्वररूपः अस्ति। तस्मिन् भाररूपाणां व्यञ्जनानां विद्यमानता नास्ति।

     गर्गसंहितायां ७.४०.१९ आख्यानमस्ति यत्र शकुनिः असुरः केनापिप्रकारेण हननीयः नास्ति। तस्य जीवः चन्द्रद्वीपे पतंगपर्वते शुकरूपेण विद्यमानः अस्ति। यदा गरुडः शुकरूपस्य जीवस्य वधं करोति, तदैव शकुनेः वधं सम्भवं भवति। अत्र शकुनिः शब्दः रहस्योद्घाटकः अस्ति। वैदिकमन्त्रेषु पतङ्गे वाक् गर्भरूपेण निहिता अस्ति। गर्गसंहितायां अयं वाक् शकुनिरूपे अस्ति। शकुनः नैव सर्वदा भवति। अपि च, शकुनः सत्यं अथवा अनृतं भवितुं शक्यते।

 

संदर्भाः

तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः।

समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः॥ १.११६.०४

आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः।

ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति॥ १.११८.०४

आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य।

परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके॥ १.११८.०५

पतङ्गाः उत्पतनसमर्थाः सा.भा.

आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगम्।

शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि॥ १.१६३.०६

तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः।

तपूंष्यग्ने जुह्वा पतंगानसंदितो वि सृज विष्वगुल्काः॥ ४.००४.०२

सत्वा भरिषो गविषो दुवन्यसच्छ्रवस्यादिष उषसस्तुरण्यसत्।

सत्यो द्रवो द्रवरः पतंगरो दधिक्रावेषमूर्जं स्वर्जनत्॥ ४.०४०.०२

पतंगमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः।

समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः॥ १०.१७७.०१

पतंगो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः।

तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति॥ १०.१७७.०२

त्रिंशद्धाम वि राजति वाक्पतंगाय धीयते।

प्रति वस्तोरह द्युभिः॥ १०.१८९.०३

त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्।

प्रति वस्तोरहर्द्युभिः ॥शौअ ६.३१.

तर्द है पतङ्ग है जभ्य हा उपक्वस ।

ब्रह्मेवासंस्थितं हविरनदन्त इमान् यवान् अहिंसन्तो अपोदित ॥शौअ ६.५०.

रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्तः ।

उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्जित्॥३०॥ {}

अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन् पतङ्गः ।

विष्णुर्विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत्॥१३.२.३१

य इमे द्यावापृथिवी जजान यो द्रापिं कृत्वा भुवनानि वस्ते ।

यस्मिन् क्षियन्ति प्रदिशः षडुर्वीर्याः पतङ्गो अनु विचाकशीति ।१३.३.१

त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्।

प्रति वस्तोरहर्द्युभिः ॥२०.४८.६॥

स होवाच यद्वै ते पुरा रूपमासीत्तत्ते रूपं न तु त्वा परिष्वङ्गायोपलभ इति १ ओमिति होवाच ब्राह्मणो वै मे साम विद्वान्साम्नोदगायत् स मेऽशरीरेण साम्ना शरीराण्यधूनोत्तद्यस्य वै किल साम विद्वान्साम्नोद्गायति देवतानामेव सलो-कतां गमयतीति २ पतङ्गः प्राजापत्य इति होवाच प्रजापतेः प्रियः पुत्र आस स तस्मा एतत्सामाब्रवीत्तेन स ऋषीणामुदगायत्त एत ऋषयो धूतशरीरा इति जैउब्रा. ३.६.२

पतङ्गमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम्पदमिच्छन्ति वेधस इति १ पतङ्गमक्तमिति प्राणो वै पतङ्गः पतन्निव ह्येष्वङ्गेष्वति रथमुदीक्षते पतङ्ग इत्याचक्षते २ असुरस्य माययेति मनो वा असुरं तद्ध्यसुषु रमते तस्यैष माययाक्तः ३ हृदा पश्यन्ति मनसा विपश्चित इति हृदैव ह्येते पश्यन्ति यन्मनसा विपश्चितः ४ समुद्रे अन्तः कवयो वि चक्षत इति पुरुषो वै समुद्र एवंविद उ कवयः त इमाम्पुरुषेऽन्तर्वाचं विचक्षते ५ मरीचीनाम्पदमिच्छन्ति वेधस इति मरीच्य इव वा एता देवता यदग्निर्वायुरादित्यश्चन्द्र माः ६ न ह वा एतासां देवतानाम्पदमस्ति पदेनो ह वै पुनर्मृत्युरन्वेति ७ तदेतदनन्वितं साम पुनर्मृत्युना अति पुनर्मृत्युं तरति य
एवं वेद ८ जैउब्रा. ३.६.७

पतङ्गो वाचम्मनसा बिभर्तीति प्राणो वै पतङ्गः स इमां वाचम्मनसा बिभर्ति २ तां गन्धर्वोऽवदद्गर्भे अन्तरिति प्राणो वै गन्धर्वः पुरुष उ गर्भः स इमाम्पुरुषेऽन्तर्वाचं वदति ३ तां द्योतमानां स्वर्यम्मनीषामिति स्वर्या ह्येषा मनीषा यद्वाक् ४ ऋतस्य पदे कवयो नि पान्तीति मनो वा ऋतमेवंविद उ कवयः ओमित्येतदेवाक्षरमृतं तेन यदृचम्मीमांसन्ते यद्यजुर्तत्साम तदेनां निपान्ति ५ जैउब्रा. ३.६.८