पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Phalabhooti  to Braahmi  )

Radha Gupta, Suman Agarwal & Vipin Kumar 

HOME PAGE

Phalabhooti - Badari  (Phalgu, Phaalguna,  Phena, Baka, Bakula, Badavaa, Badavaanala, Badari etc.)

Badheera - Barbara( Bandi, Bandha / knot, Babhru, Barkari, Barbara etc.)

Barbara - Baladeva ( Barbari / Barbaree, Barhi, Barhishad, Barhishmati / Barhishmatee, Bala, Balakhaani, Baladeva etc.)

Baladevi - Balaahaka (Balabhadra, Balaraama, Balaa, Balaaka, Balaahaka etc.)

Bali - Bahu ( Bali, Bahu / multiple etc.)

Bahuputra - Baabhravya ( Bahuputra, Bahulaa, Baana, Baanaasura, Baadaraayana etc. )

Baala - Baashkali (Baala / child, Baalakhilya, Baali / Balee, Baashkala, Baashkali etc.)

Baaheeka - Bindurekhaa (Baahu / hand, Baahleeka, Bidaala, Bindu/point, Bindumati etc.)

Bindulaa - Budbuda (Bila / hole, Bilva, Bisa, Beeja / seed etc.)

Buddha - Brihat ( Buddha, Buddhi / intellect, Budha/mercury, Brihat / wide etc.)

Brihatee - Brihadraaja (  Brihati, Brihatsaama, Brihadashva, Brihadbala, Brihadratha etc.)

Brihadvana - Bradhna ( Brihaspati, Bodha etc.)

Brahma - Brahmadhaataa ( Brahma, Brahmcharya / celibacy, Brahmadatta etc. )

Brahmanaala - Brahmahatyaa (Brahmaraakshasa, Brahmarshi, Brahmaloka, Brahmashira , Brahmahatyaa etc. )

Brahmaa- Brahmaa  (  Brahmaa etc. )

Brahmaa - Braahmana  (Brahmaani, Brahmaanda / universe, Brahmaavarta, Braahmana etc. )

Braahmana - Braahmi ( Braahmana, Braahmi / Braahmee etc.)

 

 

बिन्दु

नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् । स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ॥ जाबालदर्शनोप. ५.६॥

बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् । पश्चाद्विरेचयेत्सम्यक्प्राणं पिङ्गलया बुधः ॥ जा.द. उ. ५.८॥

लिङ्गनालात्समाकृष्य वायुमप्यग्रतो मुने ॥ ४०॥  प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् । मूलाधारस्य विप्रेन्द्र मध्ये तं तु निरोधयेत् ॥ ४१॥  निरुध्य वायुना दीप्तो वह्निरूहति कुण्डलीम् ।जाद. ६.४१

अकारः प्रथमाक्षरो भवति । उकारो द्वितीयाक्षरो भवति ।

मकारस्तृतीयाक्षरो भवति । बिन्दुस्तुरीयाक्षरो भवति । नादः

पञ्चमाक्षरो भवति । कला षष्ठाक्षरो भवति । कलातीता

सप्तमाक्षरो भवति । तत्परश्चाष्टमाक्षरो भवति । - तारसारोपनि.

 

मकाराक्षरसंभूतः शिवस्तु हनुमान्स्मृतः ।

बिन्दुरीश्वरसंज्ञस्तु शत्रुघ्नश्चक्रराट् स्वयम् ॥ तारसारोपनि. २॥

द्वितीये धामनि पूर्वेणैव मनुना बिन्दुहीना शक्तिभूतहृल्लेखा क्रोधमुनिनाधिष्ठिता ।- त्रिपुरातापिन्यु.

बिन्दुपूर्णज्योतिःस्थानं कृत्वा प्रथमस्याद्यं द्वितीयं च तृतीयं च सर्वरक्षाकरीसम्बन्धं कृत्वा विद्यामात्मासनरूपिणीं स्पष्टीकृत्वा

 

तत्रोङ्कारपीठं पूजयित्वा तत्राक्षरं बिन्दुरूपं तदन्तर्गत- व्योमरूपिणीं विद्यां परमां स्मृत्वा महात्रिपुरसुन्दरीमावाह्य । - त्रिपुरातापि. उप.

तैलधारमिवाच्छिन्नदीर्घघण्टानिनादवत् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥ ध्यानबिन्दूपनि. ३७॥

नादकोटिसहस्राणि बिन्दुकोटिशतानि च ॥ ५०॥  सर्वे तत्र लयं यान्ति ब्रह्मप्रणवनादके ।नादबिन्दूपनि.

अकारः प्रथमोकारो द्वितीया मकार- स्तृतीयार्धमात्रा चतुर्थी नादः पञ्चमी बिन्दुः षष्ठी कला सप्तमी कलातीताष्टमी शान्तिर्नवमी शान्त्यतीता दशमी उन्मन्येकादशी मनोन्मनी द्वादशी पुरी त्रयोदशी मध्यमा चतुर्दशी पश्यन्ती पञ्चदशी परा । - नारदपरिव्राजकोपनि

षट्सु पत्रेषु षडक्षरं सुदर्शनं भवत्यष्टसु पत्रेष्वष्टाक्षरं नारायणं भवति द्वादशसु पत्रेषु द्वादशाक्षरं वासुदेवं भवति षोडशसु पत्रेषु मातृकाद्याः सबिन्दुकाः षोडश स्वरा भवन्ति – नृसिंहपूर्वतापिन्युप.

उत्सेक उदधेर्यद्वत्कुशाग्रेणैकबिन्दुना ।

मनसो निग्रहस्तद्वद्भवेदपरिखेदतः ॥ K_३.४१ ॥

यो ह खलु वाव शरीरमित्युक्तं स भूतात्मेत्युक्तमथास्ति तस्यात्मा बिन्दुरिव पुष्कर इति – मैत्रायण्युपनि.

मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् ॥ ५॥  मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् । न च बन्धनमध्यस्थं तद्वै कारणमानसम् ॥ ६॥  चन्द्रार्कमध्यमा शक्तिर्यत्रस्था तत्र बन्धनम् । ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा वायुं च मध्यगम् ॥ ७॥  स्थित्वासौ बैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् । वायुं बिन्दुं समाख्यातं सत्त्वं प्रकृतिमेव च ॥ ८॥  योगकुण्डल्युपनि.

बिन्दुर्ब्रह्मा रजः शक्तिर्बिन्दुरिन्दू रजो रविः । उभयोः सङ्गमादेव प्राप्यते परमं पदम् ॥ ६२॥  वायुना शक्तिचालेन प्रेरितं च यथा रजः । याति बिन्दुः सदैकत्वं भवेद्दिव्यवपुस्तदा ॥ योगचूडामण्युपनि. ६३॥

चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् ।

सूर्याचन्द्रमसोरनेन विधिना बिन्दुद्वयं ध्यायतः शुद्धा नाडिगणा भवन्ति यमिनो मासद्वयादूर्ध्वतः ॥ ९८॥

तद्रूपवशगा नार्यः काङ्क्षन्ते तस्य सङ्गमम् । यदि सङ्गं करोत्येष तस्य बिन्दुक्षयो भवेत् ॥ ६१॥  वर्जयित्वा स्त्रियाः सङ्गं कुर्यादभ्यासमादरात् । योगिनोऽङ्गे सुगन्धश्च जायते बिन्दुधारणात् ॥ ६२॥  योगतत्त्वोपनिषत्

बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् । शुद्धस्फटिकसङ्काशं धृतबालेन्दुमौलिनम् ॥ ९९॥ योगतत्त्वोपनिषद

हृदि स्थाने स्थितं पद्मं तस्य वक्त्रमधोमुखम् ॥ १३७॥  ऊर्ध्वनालमधोबिन्दुस्तस्य मध्ये स्थितं मनः । अकारे रेचितं पद्ममुकारेणैव भिद्यते ॥ १३८॥  मकारे लभते नादमर्धमात्रा तु निश्चला । - योगतत्त्वोपनिषत्

जलूका रुधिरं यद्वद्बलादाकर्षति स्वयम् । ब्रह्मनाडी तथा धातून्सन्तताभ्यासयोगतः ॥ १२५॥  अनेनाभ्यासयोगेन नित्यमासनबन्धतः । चित्तं विलीनतामेति बिन्दुर्नो यात्यधस्तथा ॥ १२६॥  योगशिखोपनिषत्

चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् । बिन्दुनादमहालिङ्गं शिवशक्तिनिकेतनम् ॥ १६७॥

आधारशक्तिरव्यक्ता यया विश्वं प्रवर्तते । सूक्ष्माभा बिन्दुरूपेण पीठरूपेण वर्तते ॥ १२॥  बिन्दुपीठं विनिर्भिद्य नादलिङ्गमुपस्थितम् । प्राणेनोच्चार्यते ब्रह्मन्षण्मुखीकरणेन च ॥ १३॥  गुरूपदेशमार्गेण सहसैव प्रकाशते योगशिखोपनिषत्

मूलाधारगता शक्तिः स्वाधारा बिन्दुरूपिणी ॥ २॥  तस्यामुत्पद्यते नादः सूक्ष्मबीजादिवाङ्कुरः । तां पश्यन्तीं विदुर्विश्वं यया पश्यन्ति योगिनः ॥ ३॥

नाडीचक्रमिति प्रोक्तं बिन्दुरूपमतः शृणु ॥ २७॥  स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः । स्थूलं शुक्लात्मकं बिन्दुः सूक्ष्मं पञ्चाग्निरूपकम् ॥ २८॥  सोमात्मकः परः प्रोक्तः सदा साक्षी सदाच्युतः ।

नादरूपा पराशक्तिर्ललाटस्य तु मध्यमे ॥ ४८॥  भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके । बिन्दुमध्ये च जीवात्मा सूक्ष्मरूपेण वर्तते ॥

॥  यो वै नादः स वै बिन्दुस्तद्वै चित्तं प्रकीर्तितम् । नादो बिन्दुश्च चित्तं च त्रिभिरैक्यं प्रसादयेत् ॥ ७२॥  मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् । मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् ॥ ७३॥ 

गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् ।

शिवस्य बिन्दुरूपस्य स्थानं तद्धि प्रकाशकम् ॥ ५०॥

 

यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता ।

यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्धते ॥ ५१॥ वराहोपनिषत्

यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्धते ।

यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः ॥ ५२॥

 

हस्वं बिन्दुगतं दैर्घ्यं ब्रह्मरन्ध्रगतं प्लुतम् ।

द्वादशान्तगतं मन्त्रं प्रसादं मन्त्रसिद्धये ॥ ७०

  

एतदेव परं ज्ञानं शिव इत्यक्षरद्वयम् । विचाराद्याति विस्तारं तैलबिन्दुरिवाम्भसि ॥ १-१७॥  शिवोपनिषत्

एवं कृत्वा हृदये अष्टदले हंसात्मानं ध्यायेत् । अग्नीषोमौ पक्षावोङ्कारः शिरो बिन्दुस्तु नेत्रं मुखं रुद्रो रुद्राणी चरणौ बाहू कालश्चाग्निश्चोभे पार्श्वे भवतः ।हंसोपनिषत्